एष्याचषकहोक्की - किरीटं भारताय।
धाक्का > एष्यन् मण्डल यष्टिकन्दुकस्पर्धायां भारतदलाय किरीटप्राप्तिः। दशसंवत्सराणां विरामवेलायाः अनन्तरमेव भारतस्य किरीटप्राप्तिः। रविवासरे प्रवृत्तायामन्तिमस्पर्धायां भारतम् एकं प्रति लक्ष्यकन्दुकद्वयेन मलेष्यां पराजितवत्।
रमण् दीप् सिंहः, ललित् उपाध्यायः इत्येतौ भारताय लक्ष्यकन्दुकमाप्तवन्तौ। २००३ तथा २००७ संवत्सरे च भारतेन इतः पूर्वम् एष्याचषकं प्राप्तम्।