कोच्चीमध्ये अन्ताराष्ट्रीया आयुर्वेदसङ्गोष्ठी प्रदर्शनं च सञ्चाल्यते।
कोच्ची > केरलस्य आयुर्वेदमण्डलं लोकराष्ट्राणां पुरतः
अवतारयितुं २०१८ फेब्रुवरिमासे अन्ताराष्ट्रसङ्गोष्ठी आयुर्वेदप्रदर्शनं च
आयोजयिष्यतीति केरलस्य स्वास्थ्यमन्त्रिणी के के शैलजा अब्रवीत्।
कोच्चीनगरे राष्ट्रियायुर्वेददिनाचरणस्य राज्यस्तरीयोद्घाटनं कुर्वन्
भाषमाणा आसीत् सा। चतुर्दिवसीयसङ्गोष्ठी भविष्यति।
आयुर्वेदगवेषणं, चिकित्सा, रोगप्रतिरोधः, औषधनिर्माणं,
औषधसस्यकृषिः, आयुर्वेदाध्ययनम् इत्यादिषु आयुवेदमण्डलेषु विदग्धाः च
सङ्गोष्ठ्यां भागभागित्वं करिष्यन्ति।