इराख् राष्ट्रे भीकराक्रमणम्। पञ्चदश मृत्युः।
बाग्दाद्> इराख् राष्ट्रे इस्लामिक भीकरैः कृतयोः आक्रमणयोः पञ्चदश जनाः हताः। नसिरियायां एकस्मिन् भोजनालये आगतः अग्निगोलविक्षेपणी धारिणा कृते अग्निगोलविक्षेपणे तथा समीपे जाते कारयानस्फोटने च जनाः मृताः।इराख् सेनया सह आक्रमणं कृतस्य षिया संस्थायाः गणवेषं धृत्वा एव भीकरैः आक्रमणं कृतमिति प्रतिवेदनानि वदन्ति। अशीति जनाः क्षतबाधिताः। मरणसंख्या इतोपि वर्धयेदिति सूचना।