मृत्तैलानां मूल्यं पञ्चाशत् ५० तः न्यूनीकर्तुं शक्यते- भाजपा नेता सुरेन्द्रः
कोषिकोट् -केरलम्> मृत्तैलानां मूल्यं पञ्चाशत् ( ५० ) रुप्यकादपि न्यूनीकर्तुं शक्यते इति भाजपा दलस्य केरल राज्यस्यनेता के सुरेन्द्रः । एतदर्थम् राज्य सर्वकारेण कृतम् अधिककरवर्धनम् प्रतिगृणीयम् नो चेत् जि एस् टी क्रमस्य परिधौ निबन्धनीयम्।१०१० तमे कोण्ग्रस् सर्वकारेण एव सर्वकारस्य मूल्यनिर्णयाधिकारः परित्यक्तः। साधैकवर्षाभ्यन्तरे एकवारमपि मोदिसर्वेकारेण करमूल्यं न वर्धितम् इति सुरेन्द्रः वदति। मृतैलानां मूल्यवर्धनविषये अन्येषां राजनैतिक दलानां जनानां पुरतः विप्रतिपत्ति प्रकाशनं विमृश्य आसीत् अस्य भाषणम्