करीबियन् द्वीपसमूहं नाशयित्वा 'इर्मा' अमेरिक्कां लक्ष्यीकृत्य चरति।
मारिगावो > करीबियन् द्वीपसमूहेषु संहारताण्डवं कुर्वति इर्मा नामकेन चक्रवातेन दश जनाः मृताः। मरणसंख्या परं वर्धिष्येत।द्वीपेषु अन्यतमः बार्बुडा द्वीपः वासाय अयोग्य अभवत्, इतरः सेन्ट् मार्टिन् द्वीपः पूर्णतया नाशप्रायः जातः इति च अधिकृतैरुक्तम्।
अत्लान्टिक् समुद्रे प्रभूतस्य इर्मा चक्रवातस्य वेगः होरायां २८५ कि मी परिमितं भवति। इदानीं अमेरिक्कायाः फ्लोरिडां लक्ष्यीकृत्य सञ्चरतीति फेमानामिका संस्था पूर्वसूचनामदात्। जोर्जिया, हैती, क्यूबा, बहामस् इत्यादीनि राष्ट्राणि इर्मायाः सञ्चारपथे अन्तर्भवन्तीति सूच्यते।