GST नाम करव्यवस्थायाम् आयोज्य मृत्तैलस्य मूल्यनियन्त्रणम् ।
त्रिश्शिव पेरूर्> मृत्तैलानां मूल्यं पण्यकर सेवननियमे अन्तर्भावयति चेत् (जि एस् टि ) मुल्यनियन्त्रणं शक्यते इति पेट्रोलियं मन्त्री धर्मेन्द्र -प्रधानः अवदत्I एतदर्थं पेट्रोलियंमन्त्रालयः केन्द्रसर्वकाराय पत्रं प्रेषितवान् इति मन्त्रिणा वार्तासम्मेलने उक्तम्।
आयः न्यूनीकृत्य मूल्यं न्यूनीकर्तुम् मृत्तैलशालाः आदिष्टाः च। राज्यसर्वकारेण तेषां आयवर्धनाय करः २६% तः ३४% इति वर्धितः। एतदेव मूल्यवर्धनस्य मुख्यं कारणम् इति सः अवदत्।