नीट् -समराः सर्वोच्चन्यायालयेन निरुद्धा:।
नवदेहली> नीट्परीक्षाविरुद्धसमराः सर्वोच्चन्यायालयेन निरुद्धाः। समरे भागभाज: नेतृन् बध्नातुं न्यायालयेन आदिष्टम् I तमिल्नाडुदेशे अनितानामिकाया: दलिद्विद्यार्थिन्याः मरणसम्बन्धान्वेणनिवेदने एव न्यायालयादेशः। अनितायाः आत्माहुतिकारणस्य न्यायालयीयान्वेषणाय एव निवेदनं समर्पितमासीत् । नीट् -परीक्षायां पराजितत्वात् अस्मिन् मासे प्रथमदिनाङ्के आत्महत्यां कृतवती अनिता द्वादशकक्षायाः अष्टनवतिप्रतिशतमङ्कान् प्राप्य उत्तीर्णा आसीत् । किन्तु नीट् परीक्षायामेकादशप्रतिशतमेवाङ्कान् प्राप्तवती । तमिल्नाडुग्रामीणविद्यार्थिनां शिक्षां नीट्- परीक्षाफलं नाशयति इति सूचयित्वा सर्वोच्चन्यायालये पञ्जीकृते नीट् व्यवहारे अनिता भागिनी आसीत् ।