नारिकेलस्य जनितकनिगूढता निर्णीता।
कासर्कोट् > नारिकेलवृक्षस्य पारम्पर्य -स्वभावसविशेषताः निर्णीयमाना जनितकरीतिः भारतीयशास्त्रज्ञैः विश्लेषीकृता। केरलस्य कार्षिकमण्डले अनन्तसाध्यताम् उद्घाटयतीदं गवेषणफलम्।
कासरगोडस्थ केन्द्रकैदार्य-गवेषणकेन्द्रस्य नवदिल्लीस्थ राष्ट्रियकैदार्य जनितक-साङ्केतिकविद्यागवेषण केन्द्रस्य च वैज्ञानिकानां नेतृत्वे आसीदयमधिगमः। नारीकेलवृक्षस्य उन्नतिः, फलस्य वर्णः , बाध्यमानाः रोगाः, नारीकेलतैलस्य मानः गुणः इत्यादीन् आधारघटकान् निर्णीयमानाः जनितकांशाः [जीन्] शास्त्रज्ञैः प्रत्यभिज्ञाताः।