रोहिङ्क्यानां विषये सूच्याः नयः अविश्वसनीयः इति आम्नस्टिदलम्I
लन्टन्> रोहिङक्यायानां विषये म्यान्मर् राष्ट्रस्य नेतृणीं ओङ् साङ् सूचीं विमृश्य आम्नस्टि इन्टर् नाषणल् इति मानवाधिकारसंस्था। विषयेस्मिन् मरुभूमि स्था अष्ट्रपक्षी इव सिकतासु मुखं संस्थाप्य तिष्टति सूची इति आम्नस्टि संस्थया उक्तम्।विषयेऽस्मिन् राष्ट्रान्तरसमूहस्य अभिमतः न स्वीक्रियते इति सूचिनाव्यक्तिकृतम् । म्यानमर् देशतः धावनं कृत्वा बङ्गाल देशं प्राप्तवतां जनानां विषयेषु कदापि चिन्तयाम: इति म्यान् मर् देशस्थस्य अधिपया उक्तम्।