सर्वेषां भारतीयानां कृते धन्यवादं प्रकाश्य फा. टोम्।
वत्तिक्कान् > स्वस्य मोचनाय प्रार्थनां कृतवतां सर्वेषां भारतीयानां कृते धन्यवादं समर्पयामीति फादर् टोम् उष़ुन्नालिल् । वत्तिक्कानतः विदेशकार्यमनत्रिण्या सुषमास्वराजवर्यया सह दूरवाणीद्वारा भाषमाणे सन्दर्भे आसीत् तस्य कृतज्ञताप्रकाशनम्।भीकराः आत्मानं कस्मिंश्त्समये अपि अभिद्रोहं न कृतवन्त इति टोमः वार्ताहरान् प्रति उक्तवान्। "सार्धैकसंवत्सरं यावत् इस्लामिकभीकरैः सह वासः यातनापूर्णः अतिक्राम्यमानश्चासीत्। एकमात्रवस्त्रधारी आसम्। शरीरभारे न्यूने जाते भीकराः प्रमेहस्यौषधं दत्तवन्तः। वासशिबिराणि त्रिवारं परिवर्तितम्। त्रिवारमपि नयने निबन्ध्य एव नीतः"- स्वस्य बन्धितजीवनमधिकृत्य फादर् टोमः विशदीकृतवान्।
इदानीं वत्तिक्काने स्थित्वा आरोग्य परिरक्षां कृत्वा एव स्वदेशं प्रति यात्रामधिकृत्य विचिन्त्यते इति तेनोक्तम्।