मुम्बै नगरे ११७ संवत्सरं यावत् पुरातनं अट्टशूलागृहं भग्नम् । मृतानां संख्याः ३४ अभवत् ।
मुम्बै> पुरातनं पञ्च अट्टयुतं प्रासादं भग्नमभवत् । दुर्घटनायां चतु स्त्रिंशत् (३४) संख्याकाः जनाः मृताः। प्रासादा वशिष्टानां मध्ये पतितान् सर्वानपि बहिरानीताः इति अग्निशमन-सेनया उक्तम्। मृतेषु चतुविंशाति (२४)पुरुषाः नव (९) स्त्रियः विंशति (२०) दिनस्य आयुष्कः शिशुः च अन्तर्भवति। व्रणिताः पञ्चदशाः (१५) विविधेषु आतुरालयेषु प्रविष्टाः। सप्तचत्वारिंशत् जनाः रक्षिताः च।राष्ट्रियदुरन्त-निवारणसेना, अग्निशमनसेना, आरक्षकाः च मिलित्वा कृतेन प्रयत्नेन जीवाः रक्षिताः। षट् अग्निशमनसेनाङ्गानाङ्गाः एकः त्वरितनिवारणसेनाङ्गः च व्रणिताः
गुरुवासरे प्रातः एव आसीत् इयं दुर्घटना। एकनवत्यधिक सप्तशतं (७९१) आलयाः दुर्घटनावस्थायां सन्तीति पठनफलाधारेण प्रादेशिकसर्वेकारेण उद्घोषणा प्रसारिता आसीत्