त्रिपरंपराणाम् आकाशकुटुंबं शतकं यावदुड्डीतवत् ।
अतिशुभ्रवर्णयुक्तः गणवेषः,अभिमान: यावत् औन्नत्येन तिष्ठत् शिरस्त्राणं , स्कन्धे चिह्नितौ लोलकौ, नेत्रयो:मनसि च विमानयात्राया: आनंद: उत्साह: च। आकाशयात्रायां भासिन्कुटुंबम् एकं शताब्दं यापितवत्। आकाशयात्राया: षट्सप्ततिसहस्रोत्तराष्टलक्षघंटा:। सीमारहितानाम् आकाशयात्राणाम् स्वप्नम् दृष्ट्वा जीवितत्वेन परिगणय्य सहकृतवत् भवति भारतीयं भासिन्कुटुंबं,पितामहेन क्याप्टन्जयदेव भासिन् महोदयेन आरब्धं वैमानिकजीवितम् इदानीं परम्पराद्वयम् अतीत्य पौत्रेषु प्राप्तम्।