भाविनि प्रधानसमस्या: परिस्थिति: तथा जललभ्यता च - एम् पी वीरेन्द्रकुमार:।
नवदिल्ली> राष्ट्रेण भाविनि अभिमुखीकरणीया: मुख्यसमस्या: नाम परिस्थिति: तथा जललभ्यता चेति राज्यसभासदस्य:वीरेन्द्रकुमार: एम् पी अभिप्रैतवान्। देशहितवारिकया विभिन्नलघुमाध्यमसंस्थाभिश्च मूर्तीदेवीपुरस्कारप्राप्ते: पश्चात्तले आयोजिते स्वीकरणकार्यक्रमे भाषमाण: आसीत् स:। अस्य शतकस्य अन्त्येनैव गङ्गा, यमुना, ब्रह्मपुत्रा एवं प्रमुखा: नद्य: मृता: भवेयु:। परं जलाय आक्रमणानि एव अभिमुखीक्रियमाणानि भवेयु:। स्वकीयपुस्तकेषु सामान्यजनै: बाध्यमाना: एतादृशप्रश्ना: एव प्रतिपादिता: इति सूचितवान् स:।