सुदीर्घसंघर्षान्ते भारतं चीना च सैन्ये प्रतिनिवर्तितवन्तौ।
नवदेहली > जूण्मासे आरब्धः भारतचीनासीमाविवाद: दोक्लां सीमाया: सेनाप्रतिनिवर्तनेन परिहृतः। चीनायाः मार्गनिर्माणमेव विवादहेतुरासीत् ၊ सैन्यद्वयस्य प्रतिनिवर्तनं संपूर्णमिति विदेशकार्यमंत्रालयेन सूचितं वर्तते। ब्रिक्स् उच्चकोटिकार्यक्रमात्पूर्वं नयतन्त्रस्तरे संपन्नायाःचर्चायाः अनन्तरमेव सेनाप्रतिनिवर्तननिर्णय: कृतः ।नितरां वैकारिकतया एव चीनादेशस्य प्रतिस्पन्दः अभवत् । किन्तु भारतमत्यन्तं संयमनमपालयत् । भारतचीनासेनयोर्मध्ये युद्धाय स्थितिरपि समजायत। १९६२ तमवर्षस्य युद्धं स्मारयित्वा चीनासेना भारतं प्रकोपयितुं यतते स्म ।