मरुभूमौ बेल्जियाद् महन्नगरं निर्मातुं सज्जीभूय सौदी।
रियाद् > तैलविपणिः सौदी अरेब्यायाः सम्पद्घटनायाः कशेरुका भूत्वा अर्धशतकमतीतम् । किन्तु अद्यत्वे तैलविपणौ सौदिराष्ट्रस्य लक्षितलाभप्राप्तिः नास्ति। अतः स्वराज्यस्य अपरां प्रकृतिसम्पदं मरुभूमिं सिकतां च अत्यन्तम् उपयोक्तुं सज्जीभवति सौदी।सहस्रशः चतुरश्रकिलोमीटर् यावत् व्याप्य तिष्ठन्तीषु मरुभूमिषु सिकतानगराणि सज्जीकर्तुम् उद्यता अस्ति सौदि अरेब्या| नूतनाजीविकासाधानानि स्रष्टुं सम्पद्घटनायै ऊर्जं प्रदातुम् च नूतना पद्धतिः आविष्क्रियते।