भारतस्य प्रथमसौरोर्जडेमु रेलयानम् धावनमारब्धम्।
नवदिल्ली> सौरोर्जेण प्रवर्तमानम् राष्ट्रस्य प्रथमं डेमु (डी ई एम् यु) ( डीसल् इलक्ट्रिकल् मल्टिपिल् यूणिट्) रेलयानम् भारतीयरेल्विभागेन अवतारितम्। देहल्या: सराई रोहिल्ला रेलस्थानकात् हरियानाया: फरूखनगरम् प्रति गमनमार्गेण एव एतस्य सेवनम् लभते। रेलयानस्य षट् पेटिकासु षोडश सौरोर्जफलकानि स्थापितानि। एकैकफलकञ्च त्रिशतं वाट् पीक् शेषियुतम् भवति। केन्द्रसर्वकारस्य मेक् इन् इन्ड्या (भारतनिर्माणम्) पद्धत्या: अधीने विकासितानां सौरोर्जफलकानाम् चतुष्पञ्चाशत् लक्षं रूप्यकाणि एव व्यय:। लोके प्रथमतया एव रेलमार्गेषु ग्रिड् (वैद्युति वितरण शृङ्खला) रूपेण सौरोर्जफलकानि उपयुज्यन्ते। ऊर्जस्य बाक् अप् सौकर्यमपि याने वर्तते। विद्युत्कोशेन द्विसप्ततिघण्टा: यानचालनं शक्यते इति रेलविभाग: अभिप्रैति। गतवर्षस्य रेलसम्पद्रूपरेखायाम्, आगामिपञ्चवर्षाभ्यन्तरे भारतरेलविभाग: सहस्रं मेगावाट् सौरोर्जम् उत्पादयिष्यति इति रेल्विभागमन्त्री सुरेशप्रभु: प्रख्यापितवान्। नगरप्रदेशेषु धाव्यमानेषु रेलयानेषु एव प्रथमसोपाने सौरोर्जपद्धती: अवतारयिष्यति पश्चात् दीर्घदूर-रेलसेवनेषु च पद्धतिरियं आसूत्रितम् भविष्यति इत्यपि रेल्समित्या: अङ्ग: रवीन्द्रगुप्त: ज्ञापितवान्। आगामिदिनेषु एतादृशपञ्चाशत् पेटिकाश्च आविष्कर्तुमेव रेलविभागस्य पद्धति:। पद्धत्या: पूर्णतया आविष्करणेन प्रतिवर्षं सप्तशतं कोटि: रूप्यकाणि भारतीयरेलविभागेन लाभीकर्तुं शक्यते इत्यपि रवीन्द्रगुप्त: सूचितवान्। पञ्चविंशति वर्षाभ्यन्तरे एवम् एकस्मात् रेलयानात् पञ्च दशांशं द्वे पञ्च लक्षं लिट्टर् मितं डीसल् लाभीकर्तुञ्च शक्यते। एतस्मिन् कालान्तरे एकस्मात् रेलयानात् त्रीणि कोटि: रूप्यकाणां लाभश्च रेलविभागेन स्वरूपितुं च शक्यते। पञ्चविंशतिवर्षाभ्यन्तरे पञ्चाशदुत्तरत्रिशताधिकसहस्रं टण्मितं कार्बण् बहिष्करणं न्यूनीकर्तुं च सौरोर्जरेलयानेन शक्यते इत्यपि स: योजितवान्।