यच्चूरि: राज्यसभाम् प्रति न स्पर्धिष्येदिति पी बी निर्णय:।
नवदिल्ली > सी पी एम् नेतृकार्यदर्शी सीतारामयच्चूरि: राज्यसभाम् प्रति न मत्सरेदिति पी बी निर्णय:। निर्णयं केन्द्रसमित्यां सोमवासरे आवेदयेत्। किन्तु यच्चूरि: स्पर्धिष्येदिति बङ्गालघटकं केन्द्रसमित्याम् आवश्यमुन्नयेत्। राज्यसभाम् प्रति एक: द्विवारमेव अङ्गत्वम् प्राप्नुयादिति दलस्य पारम्पर्यं यच्चूरे: कृते नियमविपर्ययम् अङ्गीकुर्यात् इति पी बी मध्ये भूरिपक्षाभिप्राय:। यच्चूरि: च तेन सहमतिम् प्रदर्शयति। किन्तु, इदानीं तस्य जयार्थम् परिश्रम: न कृत: चेत् विंशत्युत्तरद्विसहस्रात् परं बङ्गालत: दलस्य राज्यसभाङ्गं न भवेदिति स्थितिविशेष: भविष्यति इति पक्षस्य निर्णय:।