विजय: राष्ट्रस्य पार्श्ववत्कृतानाञ्च अधिकारः -रामनाथ कोविन्द:।
नवदिल्ली>निर्वाचनविजय: जनायत्तशासनस्य महिमेति राष्ट्रपतित्वेन चित: एन् डी ए स्थानार्थी रामनाथकोविन्द:। अत्यधिकवैकारिकनिमेषोयम्। राष्ट्रपते: पदवी स्वस्य कृते महत् दायित्वम् इत्यपि निर्वाचनफले आगते रामनाथकोविन्द: माध्यमप्रवर्तकानां समीपमुक्तवान्। शासनघटनाया: संरक्षणम्, तया पुर:स्थापितानाम् मूल्यानाम् उन्नयनं च राष्ट्रपतिरिति स्थितौ स्वस्य कर्तव्यमेव इत्यपि स: सूचितवान्। सर्वे सन्तुष्टा: भवन्तु इति तत्त्वार्थम् प्रवर्तयेत्, राष्ट्रपौराणां कृते आदरं संरक्षयेदित्यपि कोविन्द: अवदत्।