सौदीराष्ट्रे नज़् रानिल् प्रदेशे अग्निबाधा। भारतीयैसह ११ जनाः मृताः
रियाद् > सौदिराष्ट्रे दुरापन्नाया अग्निबाधाया एकादश जनाः मृताः। मृतेषु भारतीयाः बग्लादेशिनः च वर्तन्ते। षट्जनाः व्रणिताः चI बुधवासरे प्रभातात् पूर्वं चतुर्वादने एव अग्निबाधा अभवत्। गवाक्षरहित प्रकोष्टे एव एताः उषितवन्तः। व्रणिताः षष्टाः अतुरालयं प्रविष्टाः। दुर्ब सार्वजनिन आतुरालयः, किङ्ङ् खालिद् आतुरालयः च व्रणितानां शिश्रूषां कुर्वतः। मृतदेहाः अपि ताभ्यां पालिताः।