युवानः कर्मदातारः भवन्तु - मन्त्री हर्षवर्धनः
अनन्तपुरी > अद्यतनः कर्मान्वेषकाः श्वस्तनः कर्मदातारः भवितव्याः इति केन्द्र-वैज्ञानिक-साङ्केतिक-मन्त्रिणा डॉ. हर्षवर्धनेन युवानः उपदिष्टः। अनुकूलावस्था इदानीं जता अस्ति। केन्द्र-कर्ममन्त्रालयः तथा कोच्ची सैन् चेम्बर् आफ् कोमेर्स च संयुक्ततया आयोजितायां कर्ममेलने भाषमाणः आसीत् सः। कर्मान्वेषकाः कर्मसंरम्भकाः भवन्तु। अपि च सहस्रेभ्यः युवकेभ्यः कर्मदायिनः भवन्तु। केन्द्रसर्वकारेण अविष्कृते डिजिट्टल् इन्त्या, मेक् इन् इन्त्या, स्किल् इन्त्या आदयाः योजनाः एतदर्थं सहायकम् इति च तेन उक्तम्। केन्द्र-कर्ममन्त्रालयस्य साह्येन कृता चतुर्दशतमा मेलेयम्।