बहुस्वरतां सहिष्णुतां च स्मारयन् प्रणबस्य निवर्तनभाषणम्।
नवदिल्ली > वाचिक-शारीरिकाक्रमणेभ्यः सामाजिकसंवादाः मुक्ताः भवितव्याः इति निवृत्तराष्ट्रपतिः प्रणब् कुमार् मुखर्जी। सहिष्णुता एव भारतस्य शक्तिस्रोतः। अतः राष्ट्रे बहुस्वरतायाः तथा सहिष्णुतायाः च सुस्थितिः आवश्यकीति दुरदर्शनद्वारा कृते तस्य कार्यनिवृत्तिभाषणे उक्तवान्।