मध्यप्रदेशे पलास्तिकपोटलिकाः निरुद्धाः।
भोपाल्> मध्यप्रदेशे पलास्तिकपोटलिकाः पूर्णतया निरुद्धाः। गतदिने मिलितनियमसभामेलने एव राज्ये पलास्तिकपोटलिकानां सम्पूर्णनियन्त्रणघोषणापत्रम् अंगीकृतम्। प्रतिविधिद्वारा जूलैमासस्य प्रथमदिनाङ्के मुख्यमन्त्री शिवराज्सिङ् चौहान् राज्ये पलास्लिकपोटलिकानां निरोधनं प्रख्यापितवान्। पलास्तिकपोटलिकाः गुरुतरपरिस्थितिसमस्यानां कारणभूता इति परिगणय्य एव अयं निदेश:। पलास्तिकपोटलिकानाम् उत्पादनं, स्वहस्ते रक्षणं, विक्रयः इत्यादीनामेव निरोध: कृतः। भक्ष्यवस्तूनां धान्यानाञ्च संरक्षणायोपयुज्यमानानां पलास्तिकपोटलिकानामेव नियन्त्रणशैथिल्यं कृतं वर्तते।