आतङ्कवादं विरुद्ध्य राष्ट्राणाम् ऐकमत्यम् आवश्यकम्- नरेन्द्रमोदी।
हाम्बर्ग् [जर्मनी]>आतङ्कवादं विरुद्ध्य लोकराष्ट्राणि एकमनसा प्रयतेरन् इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना "जि २० उच्चकोटि" सम्मेलने उद्बोधितम्। कानिचित् राष्ट्राणि स्वकीयराजनैतिकलाभार्थं भीकरवादं प्रोत्साहयन्ति, तादृशानि राष्ट्राणि विरुध्य जि २० राष्ट्रैः संयोजितपदक्षेपाः स्वीकरणीयाः इति तेन निर्दिष्टम्। लष्कर् ई त्वय्बा, जय्ष् ई मुहम्मद्,ऐ एस्, अल् क्वईदा इत्येषां संघटनानां नामानि भिन्नानि सन्त्यपि तेषां लक्ष्यम् एकमेव। केवलं विद्वेष एव तेषां प्रचरणविषयः। मोदी अब्रवीत्। अतः भीकरवादं विरुद्ध्य युद्धं कर्तुं राष्ट्राणाम् अधिकः सहयोगः आवश्यकः इत्यपि मोदिना उक्तम्।