काश्मीरे जि एस् टी अङ्गीकृतम्।
श्रीनगरम्>जम्मु-काश्मीर्
विधानसभया पण्यसेवनकरदेयकम् अङ्गीकृतम्। विपक्षसामाजिकानां कोलाहलमध्ये
राज्यस्य वित्तमन्त्रिणा हसीब् द्राबुना देयकम् अवतीर्णं अङ्गीकारः
प्राप्तवत् च। नूतनं जि एस् टि देयकम् अङ्गीकृतम् अन्तिमं राज्यमस्ति
जम्मू-काशमीरः। राष्ट्रे असमराज्येनैव जि एस् टि प्रथमतया अङ्गीकृतम्।.
|
खत्तरं विरुद्ध्य उपरोधः अनुवर्तिष्यते।
दुबई>
उपरोधनिरसनाय समर्पितान् उपाधीन् प्रति खत्तर् राष्ट्रस्य प्रतिकरणं
निराशाजनकमिति सऊदि अरेब्यया सख्यराष्ट्रैश्च निगदितम्। अतः खत्तरं प्रति
उपरोधः अनुवर्तिष्यते। सौदीदेशस्य नेतृत्वे चतुर्णाम् अरबदेशानां
विदेशकार्यमन्त्रिणः ईजिप्तस्य केय्रोनगरे कृते उपवेशने एवायं निर्णयः।
|
|
OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah