दिल्ल्यां प्रतिशतं 75% सरणि चिह्नानि दोषयुक्तानि
नवदिल्ली>नव दिल्ल्यां मार्गेषु दोषपूर्णानि चिह्नानि विद्यन्ते येन विगतवर्षे 1622 जनाः मृताः, मृतकेषु 684 पथिकाः आसन्। इंस्टिट्यूट ऑफ रोड ट्रैफिक एजुकेशन (IRTE) इत्यस्यानुसारेण राजधान्यां 75% सरणिचिह्नानि IRC इत्यस्य निर्धारितमानकाधारितानि न सन्ति। अनेन दिल्ल्यां मुकरबा चौक अथ च पीरागढ़ीचौक सर्वाधिकप्रभावितस्थलौ स्तः। गुरुग्रामस्य इफकोचौक इत्यत्र विगतवर्षे 365 जनाः मृत्युमुपगताः । IRTE इत्यनेन दिल्ल्यां 14 सरणीनां 85 किलोमीटरमितमार्गे 1514 चिह्नानि अवलोकितानि येषु 1098 चिह्नानि दोषपूर्णानि विद्यन्तेे।