चैनासेना भारते अतिक्रम्य प्रविष्टा- विदेशकार्य-मन्त्रालयः।
नवदेहली- चैनासेना भारतस्य डोङ्लाङ् क्षेत्रे अतिक्रम्य प्रविष्टा इति भारतविदेशकार्यमन्त्रालयेन उक्तम्। एतत्सीमायां वर्तमानां अवस्थां भिन्नीकर्तुं गौरवतरान् सुरक्षाप्रत्याघातान् निर्मातुं योग्यं च भवति। सिक्किं राज्यस्य डोङ्लाङ् क्षेत्रे वीथीं निर्मातुं चैनायाः निर्णयः अत्यन्तं भीतिजनकः भवति। संयमनं पालयितुं भारतेन चैना अभ्यर्थिता। डोङ्लाङ् क्षेत्रे वीथीनिर्माणे मग्नः भविष्यति चेत् गौरवप्रत्याघातः भविष्यति इति भारतेन सूचना दत्ता।