उन्मादकवस्तुविक्रयणम् - जनसमूहेन हस्तपादच्छेदितः युवा मृतः ।
भट्टिन्ड [पञ्चाबदेश:]>भागिवान्दर् ग्रामे उन्मादकवस्तुविक्रयहेतुना जनसमूहः यस्य हस्तपादच्छेद नम् अकरोत् सः मृतः। उन्मादकवस्तुविक्रयहेतुना दण्डं प्राप्य चतुर्दिनपूर्वं कारागारात् बहिरागतः विनोदकुमारः (३०) एव हतः पुरुषः। तस्य उन्मादकवस्तुविक्रयनिमित्तक दुःखनिवेदनस्य आरक्षकव्यवहारविधिस्वीकारः न अभवदिति ग्रामीणाः वदन्ति। एतदर्थं डि . वै. एस् . पि. इत्यमुं द्रष्टुम् गतान् तान् विनोद : अवरुणद्धि स्म। तदेव हस्तपादच्छेदनेन पर्यवस्यति स्म।