इत: परम् प्रतिदिनम् मृत्तैलमूल्यं नवीकरिष्यति: जूण् षोडशदिनाङ्कत: प्राबल्ये।
नवदिल्ली >राष्ट्रे मृत्तैलमूल्यम् प्रतिदिनं नवीकर्तुं सामान्यमेखलातैलशालानां निर्णय:। अस्य मासस्य षोडशदिनाङ्कत: एषा रीति: राष्ट्रे सर्वत्र प्राबल्यम् भवेत्। पूर्वम्, परीक्षणरूपेण पञ्चनगरेषु गतमासे एषा रीति: प्रवृत्तिपथम् आनीता आसीत्। तैलमूल्यपरिष्कार: पक्षे एकवारम् इति रीति: अवलम्बिता आसीत् राष्ट्रे। किन्तु आगोलविपणिषु सर्वत्र दिनम् प्रति तैलमूल्यपरिष्करणरीति: अनुवर्तते। गतमईमासे प्रथमदिनाङ्कत: एव राष्ट्रे पञ्च नगरेषु प्रतिदिनं तैलमूल्यम् परिष्कृत्य परीक्षितम् । विशाखपत्तनम्,पुतुच्चेरी, जंषड्पुरम् , चण्डिगढ:, उदयपुरम् एतेषु नगरेषु परीक्षिता एषा रीति:।।