तम्बाकचर्वणं कृत्वा समायातं वरं वरयितुं विसम्मतिमकरोत् वधू।
चतुर्विंशतिघण्टा: अपि मुखे तम्बाकचर्वणं कुर्वन्त: युवान: जाग्रताम् पालयन्तु, उत्तरप्रदेशस्य एतस्या: युवत्या: निर्णयं सर्वा: युवत्य: मातृकां कुर्वन्ति चेत् आजीवनान्तं भवन्त: विवाहं विना एव जीवेयु:। उत्तरप्रदेशे बल्लिया मण्डले मुरार्पत्तिग्रामस्य युवती एव कठिनमेतं निर्णयं स्वीकृतवती। विवाहदिने तम्बाकचर्वणेन सहागतं वरं त्यक्तवती एषा। लालगञ्जमण्डले दलनचपाराग्रामे वरस्य गृहम्। विवाहदिने वधूगृहम् प्रविष्टाय वरसङ्घाय महत् स्वीकरणम् अलभत। गृहस्य अन्त: प्रत्येकं सज्जीकृतां विवाहवेदिकाम् प्रति वरस्य आगमनसमये एव एकं कार्यं वध्वा लक्षितम्। वर: सर्वदा तम्बाकचर्वणं कुर्वन्नस्ति। एतं वरयितुम् न शक्यते इति वक्तुं सा सङ्कोचं न प्राकटयत् । सर्वे स्तब्धा: जाता:। बान्धवा: युवतिं निर्णयात् प्रत्यानेतुम् परिश्रमं कृतवन्त:, पराजिताश्च। तस्यां रात्रौ उभयो: बान्धवा: सुहृदश्च चर्चां कृत्वा प्रश्नपरिहाराय अयतन्त। किन्तु स्वनिर्णये अचञ्चलमनस्का अतिष्ठत् युवतिरियम्। वरस्य गृहस्था: समीपस्थे दोकाति - आरक्षणालये स्थितिं न्यवेदयन्। आरक्षणालयस्य सहनिरीक्षक: युवत्या सह वार्तालापं कृतवान् चेदपि निर्णयात् नैव व्यत्यचलत् सापि । विवाहदिनेपि त्यक्तुमशक्यस्य तम्बाकचर्वणशीलस्य सेवकेन एकेन सह जीवितुं सन्नद्धा नेति आरक्षकानपि न्यवेदयत् सा।