ऐ एस् भीकरा: सौदी अरेब्याम् भीषयन्ति इति प्रख्यापितवन्त:।।
दुबाय्>सौदी अरेब्याम् प्रति युद्धम् प्रख्याप्य
ऐ एस् भीकरा: रङ्गे । टेहराने सप्तदशजनानां हननकारणभूतस्य आक्रमणस्य
उत्तरदायित्वं स्वीकृत्य अनन्तरमपि सौदी अरेब्यायाम् आक्रमणं कर्तुम् ऐ
एस् निर्णय: अभवदिति "" सैट् इन्टलिजन्स् निरीक्षणसङ्घ: "" (
मेखलाविज्ञानिनां निरीक्षणसङ्घेन ) आवेदितमस्ति। टेहरान् आक्रमणस्य
किञ्चित् पूर्वमेव मुखाच्छादकं धृत्वा पञ्च ऐ एस् भीकरै: कृत:
भीषणसन्देश: अन्तर्जालपटे आगत: । इरानस्य षिया मुहम्मदान् सौदी
अरेब्याया: सर्वकारांश्च भीकरा: भीषणं कुर्वन्ति। " भवतां राष्ट्रम्
अतिक्रम्य भवत: विरुद्ध्य आक्रमणं कुर्म:। वयं कस्यापि सहयोगिन: न
भवाम:। वयम् अल्लाहौ तस्य दूते च विश्वसिम: " इत्यपि दृश्यचित्रसन्देशे
वदन्ति ते। पूर्वमेव सिरियाया: इराखस्य च केषाञ्चन प्रदेशानां नियन्त्रणम्
ऐ एस् भीकरा: स्वीकृतवन्त:। किन्तु सौदीसुरक्षासेनाया: आक्रमणात्
बहुप्रदेशेभ्य: तै: पलायनं करणीयम् अभवत्। स्वीयविरुद्धशक्तिं सौदीम्
अधीनं कर्तुं समर्थान् पद्धतीन् दृढनिर्णयैस्सह रचयन्ति ऐ एस् भीकरा:।