समाजमाध्यमानि निरीक्षितुं केन्द्रं सन्नद्धतां करोति।
नवदिल्ली >भारतविरुद्धप्रचारणाय समाजमाध्यमानां दुरुपयोगं कुर्वन्ति वेति निरीक्षितुं केन्द्रसर्वकार: संविधानं करोति। सुरक्षादलानाम् आभ्यन्तरमन्त्रालयस्य च मेलनं देहल्यां प्रचाल्य एतस्य विशदांशान् अधिकृत्य चर्चामकरोत्। अधुना समाजमाध्यमेभ्य: सुशक्तनियन्त्रणानि न सन्ति। एतस्य कृते सुव्यक्तमार्गनिर्देशानां रूपीकरणमेव लक्ष्यम्। राष्ट्रतात्पर्यं विरुद्ध्य समाजमाध्यमानि उपयोक्तुं काश्चन भीकरसङ्घटना: श्रमं कृतवत्य: इति साहचर्ये केन्द्रनयस्य प्राधान्यं वर्तते।