अमेरिक्कायाम् आङ्गलपदानाम् अक्षरविवेचनस्पर्धायां त्रुटिं विना अनन्याविजयिनी।
अमेरिक्कायाम् प्रचलिते नवतितमे देशीयाङ्गलपदस्थाक्षरविवेचनस्पर्धायां (स्पेल्लिङ्ग् कण्टेस्ट् ) भारतवंशजाया: अनन्यानामिकाया:(१२ वयस्काया: ) कृते विजयकिरीटम् । भारतवंशजं रोहन राजीवं नाम बालकं विजित्यैव अनन्या स्पर्धायामस्यां जेत्री अभवत् । उपपञ्चविंशति: लक्षं रूप्यकाणाम् मूल्ययुतं डोळर् तथा फलकं (ट्रोफी) च पुरस्कार: । अनन्तपुर्याम् पूजप्पुरायां विनुभवने विनयश्रीकुमारस्य तृश्शिवपुरे चेलक्कोट्टुकरायाम् पोलियेडत्त् गृहे डा अनुपमायाश्च पुत्रीयम् । कालिफोर्णियायाम् फुगमान् एलिमेन्टरी विद्यालयस्य विद्यार्थिनी चेयम् बालिका । द्वितीयकक्ष्याछात्र: अच्युत: सहोदर: । गुरुवारे रात्रौ मेरिलान्ड् गेलोर्ड् नाशनल् रिसोर्ट् मध्ये प्रचलिते अतिशक्तायां स्पर्धायाम् एव अनन्या रोहनम् पराजितवती । " मारोकेन् " इति पदं दोषं विना उच्चार्यैव अनन्या किरीटं स्वायत्तमकरोत् । एकस्य विशिष्टवस्त्रविशेषस्य नाम इदम् पदम् ।