ज्ञानस्य वास्तविकं लक्ष्यं सामाजिकम् आर्थिकपरिवर्तम्- भरतस्य प्रधानमन्त्री
|
पि एन् पणिक्कर् |
कोचि>प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तं यत् ज्ञानं न केवलं साक्षरतापर्यन्तं भवेत् अपितु ज्ञानस्य वास्तविकं लक्ष्यं वर्तते यत् अनेन सामाजिकम् आर्थिकपरिवर्तम् च आनेतव्यम्। कोच्चिनगरे पी.एन्.पणिक्कर् फाउंडेशन् इत्यस्य अध्ययनमाससमारोहस्य उद्घाटनसमारोहे भाषमाणेन प्रधानमन्त्रिणा मोदिना प्रतिपादितं यत् श्रेष्ठज्ञानेनैव सुदृढ़समाजस्य निर्माणं भवति। आंकिकीय साक्षरतायाः महत्वं प्रतिपदयता तेन प्रतिपादितं यत् पणिक्कर-फाउंडेशन आंकिकीय साक्षरतां समाचरति इति हर्षविषयः।
प्रधानमंत्रिणा उक्तम् यत् अनेन प्रयासेन महत्परिवर्तनं भवितुं शक्यते अपि च तेन जनाः अध्यर्थिता: यत् कस्यापि अभिनन्दनसमये तस्मै उपहारस्वरूपेण पुष्पगुच्छस्य स्थाने पुस्तकं प्रयच्छन्तु।
शिक्षायाः साक्षरतायाश्च केरलराज्यस्य उपलब्धयः प्रशंसयन् श्रीमोदिना न्यगदयत् दक्षिणभारतस्य तटवर्तिप्रदेशः सर्वदा राष्ट्रस्य पथप्रदर्शकः प्रेरणास्रोतश्च विद्यते|