अफ्गानिस्थान-अयर्लान्ट् राष्ट्राभ्यां निकषदलपदप्राप्तिः।
लण्टन् > अफ्गानिस्थानाय अयर्लान्ट् देशाय च क्रिक्कट् क्रीडामण्डले निकषदलपदं दातुं अन्ताराष्ट्रक्रिक्कट् समित्याः [ऐ सि सि] सांवत्सरिकोपवेशने निर्णयः अभवत्। अनेन निकषदलानां संख्या द्वादश अभवत्। अफ्गानिस्थानः अयर्लीन्टः च यथाक्रमं एकादशं द्वादशं निकषदलं भविष्यति।आभ्यन्तरक्रिक्कट्क्रीडायाः परिपोषणाय राष्ट्रद्वयेनापि कृतानि परिष्करणानि निकषपदप्राप्त्यर्थं सुकराण्यभवन्।