मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना - द्वौ मृत, एकः अदृष्टः।
कोच्ची> केरले कोच्ची समुद्रतटात् चतुर्दश नोट्टिक्कल् मैल् [२६ कि.मी]परिमिते दूरे कीलेन बन्धितां "कार्मल् माता" नामिकां मत्स्यबन्धननौकाम् "आम्बर् एल्" इत्याख्या पण्यवस्तुयुक्ता महानौका घट्टति स्म। दुर्घटनायां द्वौ धीवरौ मृतौ। एकः अदृष्टः अभवत्। रविवासरे प्रत्युषसि मत्स्यबन्धनानन्तरं धीवरेषु सुप्तेषु इयं दुर्घटना जाता।