इराने स्थानद्वये ऐ एस् भीकराक्रमणम्; द्वादश मरणानि।
टेहरान्> इरानस्य नियमनिर्माणसभायाम् ( पार्लमेन्ट् ) तथा परमोन्नतनेतु: आयत्तुल्ला खुमैने: अन्त्यविश्रमस्थाने च प्रवृत्ते सन्नद्धमरणभीकराक्रमणे द्वादशजना: हता: । द्विचत्वारिंशत् जनानां क्षता: अभवन् ।नियमनिर्माणसभायाम् घण्टा: यावत् प्रवृत्तसङ्घट्टनानन्तरं चतुर: भीकरान् सुरक्षासेना अहनत् । द्वन्द्वाक्रमणयो: दायित्वम् भीकरसङ्घटनेति ख्याता ऐ एस् सङ्घटनया स्वीकृतम् । षिया भूरिपक्षराष्ट्रे इराने षियाविरुद्धै: ऐ एस् भीकरै: क्रियमाणम् प्रथमम् भीकराक्रमणम् एतत् ।षियामुहम्मदान् मतद्रोहिन: इति पश्यन्तीम् ऐ एस् सङ्घटनां विरुद्ध्य सिरियायाम् इराखे च युद्धरङ्गे इरानाश्रित्य स्थिता: षियाविभागा: एव । मध्यटेहराने नियमनिर्माणमन्दिरे ह्य: प्रात: प्रवृत्ते सम्मेलनमध्ये एव यन्त्रभुशुण्डिभि: सह चत्वार: सन्नद्धमरणा: अतिक्रम्य प्रविष्टा:। एतेषु एक: स्फोटनेन सह स्वयंम् भग्नगात्रश्च अभवत् । चत्वारोपि स्त्रीवेषे आगता: इति इरानस्य आभ्यन्तरमन्त्री मुहम्मद: हुसैन् सुल्फगारि: अवदत् । पञ्चाधिकघण्टा: यावत् प्रवृत्तस्य सैनिकप्रवर्तनस्य पश्चात् भीकरा: सैनिकाधीना: जाता: इति अधिकारिण: न्यवेदयन् । नियमनिर्माणसभायाम् आक्रमणस्य समनन्तरमेव सन्नद्धमरणानाम् अन्य: सङ्घ: इरानस्य विप्लवनायकस्य आयत्तुल्ला खुमैने: अन्त्यविश्रमस्थानम् अपि आक्रामत् । तस्य अन्त्यविश्रमस्थानयुतस्य स्मारकस्य समीपं सन्नद्धमरणानां स्फोटनम् प्रवृत्तम् इति वदन्ति । भीकरेषु एकं सैनिका: अहनत् एकां स्त्रियं गृहीतवन्तश्च इत्यपि आवेदयन्ति ।