दीर्घतमां सेतुं राष्ट्राय समार्पयत् प्रधानमन्त्री ।
गुवाहाटी >भारते दीर्घतमा " धोला - सदिया "सेतु: उद्घाटिता प्रधानमन्त्रिणा असमे । केन्द्रसर्वकारेण वर्षत्रये पूर्तीकृते एष: समारोप: । सर्वकारस्य तृतीयवार्षिकाघोषाणाम् औद्योगिकप्रारम्भ: अनेन अभवत् । असमे सदियाया: आरभ्यमाणा नव दशांशं एकं पञ्च कि मी दीर्घा इयं सेतु: धोलायाम् समाप्यते । असमस्य टिन् सुकिया मण्डले ब्रह्मपुत्राया: पोषकनद्या: लोहिताया: उपरि एव सेतुरियम् । एतावत्पर्यन्तं बिहारस्य महात्मागान्धिसेतुरेव ( पञ्च दशांशं सप्त पञ्च कि मी ) राष्ट्रे दीर्घतमा आसीत् । तृतीयस्थाने च मुम्बै मध्ये बान्द्र - वरली समुद्रसेतु: ( पञ्च दशांशं पञ्च सप्त कि मी दीर्घयुता )।