ग्रीन् लान्ड् देशे भीमाकारं हिमफलकं प्रस्रवणात् गतमिति गवेषका:।
भौमोपरितलस्य रूपम् एव परिवर्तनार्हं फलकम् ध्रुवमेखलायाम् अतिबृहदाकारहिमफलकद्रवीकरणं सम्भूतमिति गवेषका: । पूर्वग्रीन् लान्ड्देशस्थ रिङ्क् हिमफलकमेव बृहता मानकेन द्रवीभूय स्थानात् च्युतमिति नासाया: गवेषका: दृष्टवन्त: । हिमफलके प्रवृत्तम् अतिभीमं हिमद्रवीकरणम् , तत: हिमजलमिश्रितं चतुर्माससमयेन चतुर्विंशति: कि मी दूरं सञ्चर्य एव समुद्रे पतितम् । हिमस्य बृहत्प्रवाहोयम् भूमे: उपरितलरूपमेव परिवर्तयितुं समर्थं जातमिति , तथा उपरितले छिन्नरेखा: रूपीकृता: अनेन इति च गवेषकेषु अन्यतम: एरिक् लारर: उक्तवान् । जलत्वेन हिमत्वेन वा प्रतिमासं सप्तषष्ट्युत्तरशतं कोटि: ( १६७ कोटि: ) टण्मित: हिमभाग: एव इत: समुद्रं प्रति प्रवहित: । चतुर्माससमयेन तथा विनष्टो हिमभागश्च अष्टषष्ट्युत्तरषट्शतम् ( ६६८ ) कोटि: टण्मित: ।"जियोफिसिकल् रिसर्च् लेटेर्स् ' ("भौमोपरितलोर्जगवेषणरेखा " ) इति अन्तर्देशीयजर्णल् मध्ये एव एतदनुबद्धम् पठनम् प्रसिद्धीकृतम् । नासाया: जेट् प्रोपल्षन् कृते परीक्षणशालाया: शास्त्रज्ञस्य सुरेन्द्र अधिकारिण: नेतृत्वे पठनम् प्रवृत्तम् । षट् कि मी मितं विशालम् तथा एक - कि मी घनयुतं च भवति रिङ्क् हिमफलकम् । हिमद्रवीकरणं प्राधान्येन प्रवृत्तं च हिमफलकोपरितलस्य अधोभागे एव । हिमस्य बृहती वीचि: इव ( वेय्व् ओफ् ऐस् बेन्ड् ) एष: हिमद्रवीकरणप्रतिभास: समभवत् इति गवेषकानाम् अभिप्राय: । किन्तु निश्चितरूपेण कथमेतत् समभवत् तथैव एतस्य कारणं किम् इत्यपि सुव्यक्तं कथयितुं गवेषका: असमर्था: एव ।