एकवर्षाभ्यन्तरे भारतस्य सर्वेषु ग्रामेषु वैद्युति:।।
नवदिल्ली > राष्ट्रस्य सर्वेषु ग्रामेषु एकवर्षाभ्यन्तरे विद्युतिम् प्रापयेदिति प्रधानमन्त्री नरेन्द्रमोदी । प्रतिसन्धय: अनेका:। किन्तु वैद्युतीकरणं कर्तुं शक्यते इति प्रतीक्षा च वर्तते प्रधानमन्त्री उक्तवान्। गुर्जरदेशे गान्धिनगरे आफ्रिक्काविकसनवित्तकोशस्य वार्षिकसम्मेलनम् उद्घाटयन् स: एवं सूचितवान्। कर्षकाणां दरिद्राणां स्त्रीणां च उन्नमनमेव सर्वकारस्य प्रथमपरिगणना । शिक्षामेखलायां तावत् आफ्रिकादेशसमानैस्सह हस्तयोजनम् भारतस्य अभिमानास्पदम् इत्यपि स: उक्तवान् । चतुर्दशोत्तरद्विसहस्रतमे (२०१४) शासने आगमनात्परं भारतस्य विदेशसाम्पत्तिकनयेषु तेन आफ्रिकाया: कृते प्रातिनिध्यं दत्तम् । षण्णवत्युत्तरनवशताधिकसहस्रतमात् (१९९६) षोडशोत्तरद्विसहस्रपर्यन्तम् (२०१६) आफ्रिकाराष्ट्रैस्सह साक्षात् विदेशनिक्षेप: पञ्चसु एकं जातम् च (१/५)। एकाशीति: राष्ट्रेभ्य: त्रिसहस्राधिका: प्रतिनिधय: सम्मेलने भागं भजन्ते।