तीव्रवादाय धनसहाय:; पञ्चदशजना: द्रोहिण: इति एन् ऐ ए न्यायालय:।
गुवाहती > असमे तीव्रवादप्रवर्तनानां कृते धनसाहाय्यं कृतमिति आरोप्य पञ्चदशजना: द्रोहिण: इति एन् ऐ ए विशिष्टन्यायालय:। दण्ड: विधीयते मङ्गलवासरे। नवोत्तरद्विसहस्रतमे एन् ऐ ए न स्वीकृतद्वयो: न्यायवादयो: एव न्यायालयनिर्णय: सोमवारे आगत:। प्राक्तीव्रवादिन: जनप्रतिनिधय: तथा सर्वकारोद्योगस्थाश्च द्रोहिणाम् पट्टिकायाम् सन्ति। विकसनप्रवर्तनानां कृते स्थापितसर्वकारधनयोजनाभ्य: साम्पत्तिकव्यय: इतरमार्गै: इति आरोपणम् पूर्वमासीत्। एतस्य अन्वेषणवेलायाम् साम्पत्तिकं सर्वं तीव्रवादम् प्रति गच्छति इति ज्ञातवन्त: । सहसंयोजका: हवाला मध्यस्था: सर्वकारोद्योगस्थाश्च मिलित्वा साम्पत्तिकस्य दुरुपयोगं कुर्वन्ति एवम् । अन्वेषणस्य भागतया मिसोरामे परिशोधनायां सिंगप्पूरुनिर्मितम् एम् - षोडश रैफिल्स् तथा अनेके आयुधशेखराश्च दृष्टा: गृहीताश्च। एककोटि: द्वात्रिंशत् लक्षम् रूप्यकाणि द्वयो: न्यायवादयो: कृते एन् ऐ ए स्वीकृतवन्त: ।पञ्चराज्याणि सन्दर्श्य स्पष्टीकरणरेखा: स्वरूपिता:। असमस्य, मिसोरामस्य, कर्णाटकाया: बङ्गालस्य च आरक्षकाणां साहाय्यं सेवनं च एन् ऐ ए उपयुक्तवन्त:।।