सूर्यम् प्रति उपग्रहं विक्षेप्तुं नासा सिद्धतां करोति।
वाषिङ्टण:> अमरीकाया: बहिराकाशमध्यवर्ती कार्यालय: नासा सूर्यम् प्रति उपग्रहं विक्षेप्तुं सिद्धतां करोति ।अस्मिन्नेव सप्ताहे उपग्रहविक्षेपणं साध्यं कर्तुम् पद्धति: नासाया: । एतदनुबद्धा: औद्योगिकवार्ता: नासा बुधवारे बहिरानेष्यति ।नासया पद्धते: नाम सोलार् प्रोब् प्रस् इति निर्दिष्टम् । कठिनसाहचर्यान् उल्लङ्घ्य उपग्रहेण तरणं करणीयम् भवति इति शास्त्रज्ञा: अभिप्रयन्ति । एकं दशांशं त्रीणि सप्त सप्त डिग्री सेल्ष्यस् पर्यन्तम् भवति अत्र तापमानम् । एकादश दशांशं चत्वारि त्रीणि से मी घनयुतम् आवरणं तापं प्रतिरोद्धुं सज्जीक्रियते । घण्टायां सप्त दशांशं द्वे चत्वारि लक्षं कि मी मितवेगेन पेटकं सञ्चरिष्यति ।