कृत्रिमद्वीपेषु चैनाया: रहस्ययुद्धसन्नाहः; अण्वस्त्रसंविधानानि विन्यस्तानि I
दक्षिणचैनासमुद्रस्य कृत्रिमद्वीपेषु रहस्यसैनिकसन्नाह: प्रचलतीत्यस्य दृष्टान्तै: सह उपग्रहचित्राणि बहिरागतानि । प्रतिरोधवार्ताजालसङ्केतेन ( डिफन्स् न्यूस् वेब्सैट् ) एव नूतनोपग्रहचित्राणि एतानि बहिरानीतानि । इमेज्साट् इन्टर्नाषणल् एरोस् बी साटलैट् द्वारा स्वीकृतं नूतनचित्रं गत सोमवारे बहिरागतम्। कृत्रिमद्वीपेषु व्यापकतया सैनिकसन्नाहा: प्रचलन्ति इति चित्रेभ्य: स्पष्टं प्रतीयते । भूपक्षत: विक्षेप्तुमर्हा: अण्वस्त्रविक्षेपण्य: अपि विन्यस्ता: भवन्ति इत्यपि आवेदने कथयति । तानि च अतिनूतनानि अण्वस्त्रसंविधानानि भवेयु: इत्यपि प्रतिरोधवार्तया आवेदितं वर्तते । मार्च् पञ्चदश ( १५ ) , मई अष्ट ( ८ ) दिनाङ्कयो: प्राप्तेषु उपग्रहचित्रेषु विद्यमानभेदा: एव चर्चिता: । एच् डी निपुणानि चित्राणि एव प्राप्तानि । अस्याम् मेखलायां चैनया बहुविधानि आयुधसंविधानानि सज्जीकृतानि इति पूर्वमेव अमरीकया आरोपितं वर्तते । प्रतिसज्जानि वायुसेनायानानि ( एयर् क्राफ्ट् ) , प्रतिसज्जानि अण्वस्त्रायुधानि च अत्र विन्यस्तानि इत्येव अमरीकाया: वाद: ।।