भारतस्य सैन्यसज्जतैव देशरक्षायाः प्रमुखमस्त्रम् - जेटली
प्रतिरक्षामंत्री अरुणजेटली अवोचत् यत् भारतस्य सैन्यसज्जतैव देशरक्षायाः
प्रमुखम् अस्त्रं विद्यते । अनेन प्रत्येकस्मिन् क्ष्ेात्रे शान्तेः
स्थापना भवितुं शक्नोति । गतदिने नवदिल्ल्याम् एकस्मिन् कार्यक्रमे श्री
जेटलिना निगदितं यत् भौगोलिक-राजनैतिक परिस्थितयः वीक्ष्यः
रक्षोत्पादनक्षेत्रे पर्याप्तवृद्धेः आवश्यकता वर्तते । सममेव
रक्षामन्त्रिणा देशस्य सार्वजनिकानि संस्थागतानि च क्षेत्राणि
उन्नतास्त्रप्रणाल्याः विकासाय अध्यर्थितानि । अत्रावसरे समायोजिते
कार्यक्रम सार्वजनिकक्षेत्रस्य रक्षोपक्रमेभ्यः २०१४-१५ अथ च २०१५-१६
वर्षद्वयाय उत्कृष्टप्रदर्शनाय रक्षामंत्री पुरस्काराः प्रदत्ताः ।