विकिरण-अपघातस्य परिहारः उपलब्धः॥
बाह्याकाशयात्रासु मनुजं प्राणवेदनया हन्यमान: कश्चन अपघात: गुप्त: आसीत् एतावत्कालं यावत् ।। न केवलम् मनुजं किन्तु पेटकानि तथा उपग्रहांश्च विकिरणम् ( रेडियेषन् ) नामकोयं भीकर: ग्रसति स्म । सूर्यात् तथा क्षीरपथस्य अज्ञातस्रोतभ्य: विकिरणस्य प्रभव: । मनुष्यचर्मसु एतस्य प्रभावेण अर्बुदरोग: भवितुमर्हति । विकिरणमेतत् अधीनं कर्तुम् मानव: वर्षेभ्य: प्रयत्नं कुर्वन्नस्ति । भूमौ एतस्य कृत्रिमसृजनेन प्रतिपर्यवेक्षणे कोटीनां लाभ: भवेत् । तदपि न , विकिरणातिप्रसरयुक्के कुजे वाससाध्यतापद्धतिषु निर्णायकं स्यात् एतत् । किमपि वा भवतु पद्धतिना विजय: दृष्ट: । बाह्याकाशदुरन्तकारकान् विकिरणप्रवाहान् गवेषका: परीक्षणशालायां सृष्टवन्त: । स्कोटलन्टे स्ट्रात् क्लैड् सर्वकलाशासाया: भौतिकशास्त्रविभागेन सहायकमुपकरणं च निर्मितम् । लेसर् प्लास्मा वेगनियन्त्रकै: एतत् प्रवर्तते । सामान्यपरीक्षणशालासु एवं कृते अत्यूर्जप्रसरणयुक्तानि विकिरणानि अनियन्त्रणसाध्यानि बहि: स्फुरन्ति । इङ्ग्लेण्ड् देशस्थलेसर् - प्लास्माश्रितसेन्ट्रल् लेसर् परीक्षणशालायां परीक्षणसौकर्ये प्राप्ते निर्णायकपद्धत्या विजय: प्राप्त: । भूम्या: बाह्यं कान्तिकमण्डलम् अस्मान् बाह्याकाशविकिरणेभ्य: संरक्षन्ते । अन्तरिक्षं च त्रिपादमितलोहपालीसमानसुरक्षां च अस्मभ्यं यच्छति । भूमौ प्रत्येक: नर: प्रतिदिनं प्राय: दश (१०) मैक्रोसीवर्ट् ( ०.००००१) विकिरणं बाधते । बाह्याकाशयात्रिकेन ० .६६ ( पूज्यं दशांशं षट् षट् ) विकिरणानि बाधते तच्च मरणकारणमपि स्यात् । चन्द्रे कान्तिकमण्डलं दुर्बलम् । कुजे निर्वीर्यप्रायं च । साहचर्येस्मिन् विक्षेपणात्पूर्वं पेटकोपग्रहनिर्माणेषु एतत् सहायकं स्यात्