इत: परं सर्वेषु निर्वाचनेषु सम्मतिदानं कृतमित्यस्य रेखापत्रम् ।।
नवदिल्ली > लोकसभां तथा नियमसभां प्रति इत: परं प्रचाल्यमानेषु सर्वेषु निर्वाचनेषु सम्मतिदानं कस्मै दत्तम् इति प्रदर्श्यमानं विविपाट् संविधानम् प्रवृत्तिपथम् आनयेत् इति देशीयनिर्वाचनसमित्या व्यक्तीकृतम् । निर्वाचनयन्त्रेषु अस्तव्यस्ततायै साध्यता वर्तते इति प्रतिपक्षकक्षिभि: आक्षेपम् उन्नीतसाहचर्ये आहूते योगे एव निर्वाचनसमित्या निर्णय: व्यक्तीकृत:। सप्त (७) अखिलभारतीय पक्षदलानि , पञ्चत्रिंशत् (३५) राज्यपक्षदलानि च आहत्य द्विचत्वारिंशत् (४२) अङ्गीकृतपक्षदलानि योगेस्मिन् भागं स्वीकृतवन्त:। सुतार्यतां कृत्यतां वा दृढीकर्तुं निर्वाचनयन्त्रेषु विद्यमानानि विविपाट् रेखापत्राणि गणयेयु: इति देशीयनिर्वाचनसमित्या: अध्यक्ष: नसीं सय्दि: उक्तवान्। यन्त्रेषु रेखाङ्कितसम्मतिदानानि रेखापत्राधारेण सम्मतिदानानि च परस्परं तोलयितुम् एतत् सहायकम् भवेत् । परिष्करणसम्बद्धमार्गरेखा: झटिति प्रख्यापयेयु:। आगामिवर्षस्य अर्धं तावत् प्रवर्तनमिदं सफलं कुर्यादिति सूचना । विविपाट् संविधानम् प्रवृत्तिपथम् आनेतुं त्रिशतोत्तरत्रिसहस्रं ( ३३०० ) कोटि: रूप्यकाणि , अग्रिमपरम्परानिर्वाचनयन्त्राणां कृते नवशतोत्तरसहस्रम् ( १९०० ) कोटि: रूप्यकाणि च व्यय: लक्षीक्रियते ।निर्वाचनप्रक्रियाया: विश्वास्यतां संरक्षयेदिति मुख्यावश्यमेव राष्ट्रीयपक्षदलै: उन्नीतम् इति पुरोवर्तकघटकाध्यक्ष: (फोर्वेड् ब्लोक् सेक्रटरी ) जी देवराज: उक्तवान्। निर्वाचनपत्रिकां प्रतिगच्छेम इति केचन राष्ट्रीयपक्षदलस्था: आवश्यमुन्नीतवन्त: । किन्तु दोषान् परिहर्तुं तथा साङ्केतिकरङ्गे आगतानि परिवर्तनानि उत्प्लवनानि वा निर्वाचनप्रक्रियास्वपि प्रयुक्तानि भवेयु: इत्यासीत् सामान्यविकार:। निर्वाचनयन्त्रेषु पत्यमानं किञ्चन रेखापत्रम् सम्मतिदायकहस्ते प्राप्यमाणम् अपरं रेखापत्रं च आवश्यकमिति राष्ट्रीयपक्षदलै: अभिप्राया: उन्नीता:। निर्वाचनयन्त्रस्य सुरक्षितत्वम् प्रत्येकताश्च अधिकृत्य देशीयनिर्वाचनसमित्या: निदेशकमुख्येन श्रीमता सुदीप जेन् महाशयेन कृतावतरणेन सह योग: आरब्ध: । सम्मतिदाने कृते रेखापत्रम्। कस्मै सम्मतिदानं कृतमिति स्फुटीकर्तुं रेखापत्रं प्राप्तुं योग्यं संविधानम् भवति विविपाट् ।