सोमवारे पुनरपि सैबर् आक्रमणसाध्यता ; अधुना लक्ष्यम् एष्या।
वाषिङ्टण् > लोके आशङ्काजनकं तत् सैबर् आक्रमणं सोमवारे पुनरपि सम्भवेत् इति विदग्धानां सूचना । विरामानन्तरं कार्यालया: सोमवारे एव उद्घाट्यन्ते इति तस्य कारणं च । एतावता एकलक्षं सङ्गणकयन्त्राणि सैबर् आक्रमणेन विनष्टानि वानाक्रै इति रान्संवेयरस्य नूतनसम्पुट: एव आगामिदिनेषु आगच्छेत् इत्यपि सूचनायां कथयति । शुक्रवासरे प्रवृत्तस्य सैबर् आक्रमणस्य तीव्रता कियन्मात्रा इति इदानीमपि न स्पष्टम् इति अधिकारिण:। बृहदाक्रमणम् अप्रवृत्ता एष्या स्यात् तेषाम् अग्रिमलक्ष्यमित्यपि निगमनानि सन्ति । एष्यायां तावत् सोमवार: सामान्येन सम्मर्द्दयुक्तदिनम् भवति। अत: आक्रमणसाध्यता अधिका इति सिंगप्पूरु केन्द्रीकृत्य प्रवर्तनं कुर्वन्त: सुरक्षागवेषका: अवदन्।