ई वी एम् दायित्वकाहलस्य अन्तिमदिनाङ्क: -प्रतिसन्धिम् न स्व्यकुर्वन् राष्ट्रियदलीया:
नवदिल्ली> वैद्युतनिर्वाचनयन्त्रस्य ( ई वी एम् ) कार्यक्षमताप्रदर्शनाय कृतस्य श्रमस्य भागतया निर्वाचनसमित्या चाल्यमाने ई वी एम् दायित्वकाहले भागस्वीकाराय अपेक्षां दातुमद्य अन्तिमदिनाङ्क: । किन्तु एतावता केपि अपेक्षां न समर्पितवन्त: इति मुख्यनिर्वाचनसमित्या: समीपकेन्द्रै: ज्ञापितम् । निर्वाचनयन्त्रेषु व्यापकतया दुर्विनिमय:वर्तते इति आरोपणम् औद्योगिकरीत्या व्यक्तीकर्तुमेव एवं दायित्वस्वीकार: । सप्त अङ्गीकृतराष्ट्रियदलान् नवचत्वारिंशत् राज्यदलान् च एतदर्थम् निर्वाचनसमित्यधिकारिण: निमन्त्रितवन्त: । जून् तृतीये आरभ्य पञ्चदिनात्मकं यावत् चाल्यमाने ई वी एम् चालञ्च् कीर्यक्रमे भागं वोढुम् इच्छन्त: मई षड्विंशत्याम् सायम् पञ्चवादनात् पूर्वम् अपेक्षां दद्युरिति निर्देश: । आम् आदमी दलीया: एव आरोपणम् उन्नीतवन्त:। परीक्षणेस्मिन् उपयुज्यमानसङ्गणकेषु , मातृफलकेषु परिवर्तनानि अपेक्षितानि इति आम् आदमी दलस्य अपेक्षां निर्वाचनसमिति: व्याक्षिपत् । परिवर्तने कथञ्चित् कृते तत्र प्रकृतिनिर्वाचनयन्त्रं च न भवेदिति च निर्वाचनसमित्या ज्ञापितम् । पूर्वं दिल्ली नियमसभायाम् आम् आदमी दलीया: निर्वाचनयन्त्राणि चूषणं कृत्वा प्रादर्शयन् । किन्तु एतानि समित्या: नैवेति निर्वीचनसमित्या सूचितम् । कृत्रिमयन्त्राणि आसन्निति समित्या: वाद: विमर्शनञ्च । जूण् मासे चाल्यमाने परीक्षणे प्रतिदलेभ्य: त्रयाणामेक: सङ्घ: भागं वोढुमर्हति । विदेशीयविदग्धानां अनुमति: निषिद्धा ।पञ्चराज्येभ्य: आनीतेभ्य: निर्वाचनयन्त्रेभ्य: चत्वारि एकैकसङ्घ: चेतुमर्हति । कृत्रिमं विना कार्यक्षमताप्रदर्शनाय चतुर्घण्टात्मक: समयोपि दत्त: वर्तते ।।