राष्ट्रिय शैक्षिक अनुसन्धान-परिशीलन-परिषदेन (NCERT) पुस्तकानि नवीक्रियन्ते।
नव दिल्ली > गतेभ्यः दशसंवत्सरेभ्यः परं राष्ट्रिय-शिक्षा अनुसन्धान प्रशिक्षण-परिषदेन (NCERT ) विद्यालयपुस्तकानि नवीक्रियन्ते। परिषदः अध्यक्षेण हृषिकेशसेनापतिना राष्टिय वार्तामाध्यमेभ्यः प्रदत्तां प्रस्तुत्याम् एव वार्तेयं व्यक्तीकृता।सप्तोत्तर-द्विसहस्रतमानन्तरं (२००७) प्रथमतया एव पुस्तकानां परिष्करणं प्रचलति। अत एव अत्यधिकतया परिष्करणानि अवश्यकानि तथापि पुस्तक वितरणं जवेन करिष्यति इति च हृषिकेशमहाभागेन उक्तम्।