यादवः स्वयमम् अपराधः कृतः इति कृताङ्गीकारस्य आधारभूता चलनमुद्रिका न द्रष्टव्या इति अखिलराज्यन्यायालयः।
हेग्>कुलभूषण यादवस्य मृत्युदण्डः मास्तु इति भारतस्य निवेदनं त्यक्तव्यमिति पाक्किस्थानः। राज्यान्तर न्यायालये आसीत् पाक्किस्थान स्य मतप्रकटनम्। किन्तु कुलभूषण यादवः स्व स्खालित्यं स्वयं स्वीकरणस्य चलनमुद्रिका याः प्रदर्शने पाक्किस्थानस्य श्रमं पराजितम्।तदर्थं न्यायालयस्य अनुमतिः न लब्धा।मध्याह्ने आसीत् भारतस्य वादः। न्यायालयस्य वेद्यां भारतं राजतन्त्रम् प्रयुनक्ति इति पाक्किस्थानः आरुरोप। भारतस्य निवेदनम् अनावश्यमेव। समाधानमार्गेण समस्याः परिहर्तुं पाक्किस्थानः यतते। जादवस्य पास्पोर्ट् रेखां प्रति भारतेन विशदीकरणं न दत्तमिति पाक्किस्थानाय उपस्थितः अट्टोर्णी जनरल् खवार खुरेषी न्यायालये अवदत्।