जनप्रतिनिधयः जनैः सह अवतीर्णवन्तः। प्रतिषेधसमरे भागं स्वीकृतवन्तः।

पुनलूरुदेशतः पालक्काट् पर्यन्तं प्रतिदिनं गच्छति यानम्। किन्तु प्रधानेषु रेल् निस्थानेषु न स्थगति। इडप्पल्लि कोरट्टि इरिङ्ङालक्कुटा नेल्लायी पुतुक्काट् वटक्काञ्चेरि नामकेषु रयिल् निस्थानेषु यानस्य स्थगनाय एव इदं जनकीय आन्दोलनम्। समर भटाः श्यामवर्णयुक्तेन वस्त्रखण्डेन वदनं पिधाय प्रतिषेधं प्राकाशयन् । विविधेषु रेल् निस्थानेषु बहवः जनाः भागभाजः अभवन्।